(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.181. अध्यायः 181
Mahabharata - Vana Parva - Chapter Topics
अजगरेण भीमंप्रति स्वस्याजगरत्वप्रापककारणाभिधानम् ॥ 1 ॥ दुर्निमित्तदर्शनाद्दुर्मनायमानेन युधिष्ठिरेण भीममार्गानुसरणएनाज्जगरगृहीतभीमस्य दर्शनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

वैशम्पायन उवाच। 3-181-0x(2336)(22856)
स भीमसेनस्तेजस्वी तदा सर्पवशं गतः।
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् ॥ 3-181-1(22857)
उवाच च महासर्पं कामयाब्रूहि पन्नग।
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि ॥ 3-181-2(22858)
पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः।
नागायुतसमप्राणस्त्वया नीतः कथं वशम् ॥ 3-181-3(22859)
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा।
समागताश्च बहुशो निहताश्च मया युधि ॥ 3-181-4(22860)
राक्षसाश्च पिशाचाश्च पन्नगाश्च महाबलाः।
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम ॥ 3-181-5(22861)
किंनु विद्याबलं किंनु वरदानमथो तव।
उद्योगमपि कुर्वाणो वशगोस्मि कृतस्त्वया ॥ 3-181-6(22862)
अनुत्यो विक्रमो नॄणामिति मे धीयते मतिः।
यथेदं मे त्वया नाग बलं प्रतिहतं महत् ॥ 3-181-7(22863)
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम्।
भोगेन महता गृह्य समन्तात्पर्यवेष्टयत् ॥ 3-181-8(22864)
निगृह्यैनं महाबाहुं ततः स भुजगस्तदा।
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् ॥ 3-181-9(22865)
दिष्टस्त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज।
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनां ॥ 3-181-10(22866)
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिंदम।
तदवश्यं त्वया मत्तः श्रोतव्यं शृणु यन्मम ॥ 3-181-11(22867)
इमामवस्थां संप्राप्तो ह्यहं कोपान्महर्षिणा।
शापस्यान्तं परिप्रेप्सुः सर्वस् कथयामि तत् ॥ 3-181-12(22868)
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः।
तवैव पूर्वः पूर्वेषामायोर्वंशधरः सुतः ॥ 3-181-13(22869)
सोहं शापादगस्त्यस्य ब्राह्मणानवमत्य च।
इमामवस्थामापन्नः पश्य दैवमिदं मम ॥ 3-181-14(22870)
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम्।
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् ॥ 3-181-15(22871)
न हि मे मुच्यते कश्चित्कथंचित्प्रग्रहं गतः।
गचजोवा महिषो वाऽपि षष्ठे काले नरोत्तम ॥ 3-181-16(22872)
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता।
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम ॥ 3-181-17(22873)
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम्।
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः ॥ 3-181-18(22874)
`यस्त्वया वेष्टितो राजन्मोहमेति महाबलः'।
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् ॥ 3-181-19(22875)
ततोस्मि पतितो भूमौ न च मामजहात्स्मृतिः।
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा ॥ 3-181-20(22876)
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विभागवित्।
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः ॥ 3-181-21(22877)
गृहीतस्य त्वया राजन्प्राणिनोपि बलीयसः।
सत्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति ॥ 3-181-22(22878)
इतिचाप्यहमश्रौषं वचस्तेषां दयावताम्।
मयि संजातहार्दानामथ तेऽन्तर्हिता द्विजाः ॥ 3-181-23(22879)
सोहं परमदुष्कर्मा वसामि निरयेऽशुचौ।
सर्पयोनिमिमां प्राप्यकालाकाङ्क्षी महाद्युते ॥ 3-181-24(22880)
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम्।
न ते कुप्ये महासर्प नात्मने द्विजसत्तम ॥ 3-181-25(22881)
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः।
आगमे यदि वाऽपाये न तत्र ग्लपयेन्मनः ॥ 3-181-26(22882)
दैवं पुरुषकारेण को वञ्चयितुमर्हति।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम् ॥ 3-181-27(22883)
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम्।
इमामवस्थां संप्राप्तमनिमित्तमिहाद्य माम् ॥ 3-181-28(22884)
किंतु नाद्यानुशोचामि तथाऽऽत्मानं विनाशितम्।
तथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् ॥ 3-181-29(22885)
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससंकुलः।
मां समुद्वीक्षमाणास्ते प्रयतिष्यन्ति विह्वलाः ॥ 3-181-30(22886)
विनष्टमथ मां श्रुत्वा भविष्यन्ति निरुद्यमाः।
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना ॥ 3-181-31(22887)
अथवा नार्जुनो धीमान्विषादमुपयास्यति।
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः ॥ 3-181-32(22888)
समर्थः स महाबाहुरेकाङ्ना सुमहाबलः।
देवराजमपि स्थानात्प्रच्यावयितुमञ्जसा ॥ 3-181-33(22889)
किं पुनर्धृतराष्ट्रस् पुत्रं दुर्द्यूतदेविनम्।
विद्विष्टं सर्वलोकस्य दम्भमोहपरायणम् ॥ 3-181-34(22890)
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम्।
याऽस्माकं नित्यमाशास्ते महत्त्वमधिकं परैः ॥ 3-181-35(22891)
तस्याः कथं त्वनाथाया मद्विनाशाद्भुजङ्गम्।
सफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः ॥ 3-181-36(22892)
नकुलः सहदेवश्च यमौ च गुरुवर्तिनौ।
मद्वाहुबलसंगुप्तौ नित्यं पुरुषमानिनौ ॥ 3-181-37(22893)
भविष्यतो निरुत्साहौ भ्रष्टवीर्यपराक्रमौ।
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः ॥ 3-181-38(22894)
एवंविधं बहु तदा विललाप वृकोदरः।
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् ॥ 3-181-39(22895)
युधिष्ठिरस्तु कौन्तेयो बभूवास्वस्तचेतनः।
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् ॥ 3-181-40(22896)
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता।
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह ॥ 3-181-41(22897)
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना।
रक्तं वमन्ती ददृशे प्रत्यादित्यमभासुरा ॥ 3-181-42(22898)
प्रववौ चानिलो रूक्षश्चण्डः सर्करकर्षणः।
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च ॥ 3-181-43(22899)
पृष्ठतो वायसः कृष्णो याहियाहीति वाशति।
मुहुर्मुहुः स्फुरति च दक्षिणोऽस्य भुजस्तथा ॥ 3-181-44(22900)
हृदयं चरणश्चापि वामोऽस्य परितप्यति।
सव्यस्याक्ष्णओ विकारश्चाप्यनिष्टः समपद्यत ॥ 3-181-45(22901)
धर्मराजोपि मेधावी शङ्कमानो महद्भयम्।
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत ॥ 3-181-46(22902)
शंस तस्मै पाञ्चाली चिरयातं वृकोदरम्।
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः ॥ 3-181-47(22903)
द्रौपद्या रक्षणं कार्यमित्युवाच धनंजयम्।
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति ॥ 3-181-48(22904)
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः।
मृगयामास कौन्तेयो भीमसेनं महावने ॥ 3-181-49(22905)
स प्राचीं दिशमास्थाय महतो गजयूथपान्।
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् ॥ 3-181-50(22906)
ततो मृगसहस्राणि मृगेनद्राणां शतानि च।
पतितानि वने दृष्ट्वा मार्गं तस्याविशन्नृपः ॥ 3-181-51(22907)
धावतस्तस्य वीरस् मृगार्थं वातरंहसः।
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथिः ॥ 3-181-52(22908)
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे।
[रूक्षमारुतभूयिष्ठे निष्पत्रद्रुमसंकुले ॥ 3-181-53(22909)
ईरिणे निर्जले देशे कण्टकिद्रुमसंकुले।
अश्मस्थाणुक्षुपाकीर्णे सुदुर्गे विषमोत्कटे।]
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तदा ॥ 3-181-54(22910)

इति श्रीमन्महाभारते अरण्यपर्वणि आजागरपर्वणि एकाशीत्यधिकशततमोऽध्यायः ॥ 181 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-181-2 कामया इच्छातः ॥ 3-181-8 भोगेन देहेन ॥ 3-181-15 उपयोक्ष्यामि भक्षितुगिच्छामि। विधानं दैवम् ॥ 3-181-16 षष्ठे कालेऽष्टधाविभक्तस्याह्नो भागे ॥ 3-181-20 स्मार्तं स्मृतिविषयम्। पुराणं चिरकालीनमपि स्मरामीत्यर्थः ॥ 3-181-21 विभागविदात्मानात्मविवेकवित् ॥ 3-181-26 कदाचिदभावी सामर्थ्यहीनः कदाचित् भावी सामर्थ्यवान् अवश्यं भवति ॥ 3-181-31 परुषोक्तिभिरिति सेषः ॥ 3-181-42 वर्तिका पक्षिविशेषः ॥ 3-181-44 दक्षिणो भुज स्फुरतीति भविष्यतोऽनिष्टप्रशमनस्य लिङ्गम् ॥ 3-181-45 विकारः स्फुरणम् ॥ 3-181-50 यूथपान्पतितान्ददर्शेत्यन्वयः ॥ 3-181-54 ईरिणे ऊषरे। क्षुपाः ह्रस्ववृक्षाः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.